(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.179. अध्यायः 179
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मजामदग्न्ययुद्धवर्णनम् ॥ 1 ॥


Mahabharata - Udyoga Parva - Chapter Text

भीष्म उवाच। 5-179-0x(3912)(38077)
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्।
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः ॥ 5-179-1(38078)
आरोह स्यन्दनं वीर कवचं च महाभुज ।
बधान समरे राम यदि योद्धुं मयेच्छसि ॥ 5-179-2(38079)
ततो मामब्रवीद्रामः स्मयमानो रणाजिरे ।
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् ॥ 5-179-3(38080)
सूतश्च मातरिश्वा वै कवचं वेदमातरः ।
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन ॥ 5-179-4(38081)
एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः।
शरव्रातेन महता सर्वतः प्रत्यवारयत् ॥ 5-179-5(38082)
ततोऽपश्यं जामदग्न्यं रथमध्ये व्यवस्थितम् ।
सर्वायुधवरे श्रीमत्यद्भुतोपमदर्शने ॥ 5-179-6(38083)
मनसा विहिते पुण्ये विस्तीर्णे नगरोपभे ।
दिव्याश्वयुजि सन्नद्वे काञ्चनेन विभूषिते ॥ 5-179-7(38084)
कवचेन महाबाहो सोमार्ककृतलक्ष्मणा।
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् ॥ 5-179-8(38085)
सारथ्यं कृतवांस्तत्र युयुत्सोरकुतव्रणः ।
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह ॥ 5-179-9(38086)
आह्वयानः स मां युद्धे मनो हर्षयतीव मे ।
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः ॥ 5-179-10(38087)
तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् ।
क्षत्रियान्तकरं राममेकमेकः समासदूम् ॥ 5-179-11(38088)
ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै ।
अवतीर्य धनुर्न्यस्य पदातिर्ऋषिसत्तमम् ॥ 5-179-12(38089)
अभ्यागच्छं तदा राममर्चिष्यन्द्विजसत्तमम् ।
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् ॥ 5-179-13(38090)
योत्स्ये त्वया रणे राम सदृशेनाधिकेन वा ।
गुरुणा धर्मशीलेन जयमाशास्व मे विभो ॥ 5-179-14(38091)
राम उवाच। 5-179-15x(3913)
एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता।
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् ॥ 5-179-15(38092)
शपेयं त्वां नचेदेवमागच्छेथा विशांपते ।
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव ॥ 5-179-16(38093)
न तु ते जयमाशासे त्वां विजेतुमहं स्थितः ।
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते ॥ 5-179-17(38094)
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः ।
प्राध्मापयं रणे शङ्खं पुनर्हेमपरिष्कृतम् ॥ 5-179-18(38095)
ततो युद्धं समभवन्मम तस्य च भारत ।
दिवसान्सुबहून्राजन्परस्परजिगीषया ॥ 5-179-19(38096)
स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्खपत्रिभिः ।
वष्ट्या शतैश्च नवभिः शराणां नतषर्वणाम् ॥ 5-179-20(38097)
चत्वारस्तेन मे वाहाः सूतश्चैव विशांपते ।
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः ॥ 5-179-21(38098)
नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यो विशेषतः ।
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ॥ 5-179-22(38099)
आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि ।
भूयश्च शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे ॥ 5-179-23(38100)
ये ते वेदाः शरीरस्था .... यच्च ते महत् ।
तपश्च ते महत्तप्तं न तेभ्यः प्रहराम्यहम् ॥ 5-179-24(38101)
प्रहरे क्षत्रधर्मस्य यं त्वं राम समाश्रितः ।
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् ॥ 5-179-25(38102)
पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं मम।
एष ते कार्मुक वीर छिनद्मि निशितेषुणा ॥ 5-179-26(38103)
तस्याहं निशितं भल्लं चिक्षेप भरतर्षभ ।
तेनास्य धनुषः कोटिं छित्वा भूमावपातयम् ॥ 5-179-27(38104)
तथैव च पृषत्कानां शतानि नतपर्वणाम् ।
चिक्षेप कङ्कपत्राणां जामदग्न्यरथं प्रति । 5-179-28(38105)
काये विषक्तास्तु तदा वायुना समुदीरिताः।
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः ॥ 5-179-29(38106)
क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं रणे।
बभौ रामस्तथा राजन्प्रफुल्ल इव किंशुकः ॥ 5-179-30(38107)
हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः।
बभौ रामस्तथा राजन्प्रफुल्ल इव किंशुकः ॥ 5-179-31(38108)
ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः ।
हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः ॥ 5-179-32(38109)
ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः ।
अकम्पयन्महावेगाः सर्पानलविषोपमाः ॥ 5-179-33(38110)
तमहं समवष्टभ्य पुनरात्मानमाहवे ।
शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् ॥ 5-179-34(38111)
स तैरग्न्यर्कसङ्काशैः शरैराशीविषोपमैः ।
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् ॥ 5-179-35(38112)
ततोऽहं कृपयाऽऽविष्टो विनिन्द्यात्मानमात्मना ।
धिग्धिगित्यब्रुवं युद्धं क्षत्रधर्मं च भारत ॥ 5-179-36(38113)
असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः ।
अहो बत कृतं पापं मयेदं क्षत्रधर्मं च भारत ॥ 5-179-37(38114)
गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः।
ततो न प्राहरं भूयो जामदग्न्याय भारत ॥ 5-179-38(38115)
अथावताप्य पृथिवीं पूषा दिवसमंक्षये।
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् ॥ ॥ 5-179-39(38116)

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.